(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

05 उद्योगपर्व (196) Mahabarataham


॥ श्रीः ॥
5.2. अध्यायः 002
Mahabharata - Udyoga Parva - Chapter Topics
बलरामेण कृष्णमतानुमोदनपूर्वकं स्वस्य दुर्योधने पक्षपताविष्करणम् ॥ 1 ॥
Mahabharata - Udyoga Parva - Chapter Text

बलदेव उवाच। 5-2-0x(3330)(31715)
श्रुतं भवद्भिर्गदपूर्वजस्य
वाक्यं यथा धर्मवदर्थवच्च।
अजातशत्रोश्च हितं च युक्तं
दुर्योधनस्यापि तथैव राज्ञः ॥ 5-2-1(31716)
अर्धं हि राज्यस्य विसृज्य वीराः
कुन्तीसुतास्तस्य कृते यतन्ते।
प्रदाय चार्धं धृतराष्ट्रपुत्रः
सुखी सहास्माभिरतीव मोदेत् ॥ 5-2-2(31717)
लब्ध्वा हि राज्यं पूरुषप्रवीराः
सम्यक्प्रवृत्तेषु परेषु चैव ।
ध्रुवं प्रशान्ताः सुखमाविशेयु-
स्तेषां प्रशान्तिश्च हितं प्रजानाम् ॥ 5-2-3(31718)
दुर्योधनस्यापि मतं च वेत्तुं
वक्तुं च वाक्यानि युधिष्ठिरस्य।
प्रियं च मे स्याद्यदि तत्र कश्चि-
द्व्रजेच्छमार्थं कुरुपाण्डवानाम् ॥ 5-2-4(31719)
स भीष्ममामन्त्र्य कुरुप्रवीरं
वैचित्रवीर्यं च महानुभावम् ।
द्रोणं सपुत्रं विदुरं कृपं च
गान्धारराजं च समूतपुत्रम् ॥ 5-2-5(31720)
सवे च येऽन्ये धृतराष्ट्रपुत्रा
बलप्रधाना निगमप्रधानाः ।
स्थिताश्च धर्मेषु यथा स्वकेषु
लोकप्रवीराः श्रुतशीलवृद्धाः ॥ 5-2-6(31721)
एतेषु सर्वेषु समागतेषु
पौरेषु वृद्धेषु च संगतेषु।
ब्रवीतु वाक्यं प्रणिपातयुक्तं
कुन्तीसुतस्यार्थकरं यथा स्यात् ॥ 5-2-7(31722)
सर्वास्ववस्थासु च ते न कोप्या
ग्रस्तो हि सोऽर्थो बलमाश्रितैस्तैः।
प्रियाभ्युपेतस्य युधिष्ठिरस्य
द्यूते प्रसक्तस्य हृतं च राज्यम् ॥ 5-2-8(31723)
निवार्यमाणश्च कुरुप्रवीरः
सर्वैः सुहृद्भिर्ह्यमप्यतञ्झः।
स दीव्यमानः प्रतिदीव्य चैनं
गान्धारराजस्य सुतं मताक्षम् ॥ 5-2-9(31724)
हित्वा हि कर्णं च सुयोधनं च
समाह्वयद्देवितुमाजमीढः।
दुरोदरास्तत्र सहस्रशोऽन्ये
युधिष्ठिरो यान्विषहेत जेतुम् ॥ 5-2-10(31725)
उत्सृज्य तान्सौबलमेव चायं
समाह्वयत्तेन जितोऽक्षवत्याम्।
स दीव्यमानः प्रतिदेवनेन
अक्षेषु नित्यं स्वपराङ्भुखेषु ॥ 5-2-11(31726)
संरम्भमाणो विजितः प्रसह्य
तत्रापराधः शकुनेर्न कश्चित्।
तस्मात्प्रणम्यैव वचो ब्रवीतु
वैचित्रवीर्यं बहुसामयुक्तम् ॥ 5-2-12(31727)
तथा हि शक्यो धृतराष्ट्रपुत्रः
स्वार्थें नियोक्तुं पुरुषेण तेन।
अयुद्धमाकाङ्क्षत कौरवाणां
साम्नैव दुर्योधनमाश्वसध्वम्॥ 5-2-13(31728)
साम्ना जितोऽर्थोऽर्थकरो भवेत
युद्धेऽनयो भविता नेह सोऽर्थः ॥ 5-2-14(31729)
एवं ध्रुवत्येव मधुप्रवीरे
शिनिप्रवीरः सहसोत्पपात
तच्चापि वाक्यं परिनिन्द्य तस्य
समाददे वाक्यमिदं समुन्युः ॥ ॥ 5-2-15(31730)

इति श्रीमन्महाभारते उद्योगपर्वणि सेनोद्योगपर्वणि द्वितीयोऽध्यायः ॥

5-2-16(31731)
Mahabharata - Udyoga Parva - Chapter Footnotes
5-2-3 राज्यं राज्यार्धम् ॥ 3 ॥ 5-2-6 बलं चतुरङ्गम्। निगमो नीतिशास्त्रं ते उभे प्रधानं योषाम् ॥ 5-2-10 दुरोदराः द्यूतकाराः ॥ 5-2-12 संरम्भमाणः हठं कुर्वाणः ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.